|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.106. अध्यायः 106
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम् ॥ 1 ॥ अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-106-0x(4199)(43542)
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः।
आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ 6-106-1(43543)
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।
नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ 6-106-2(43544)
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्।
धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥ 6-106-3(43545)
तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः ।
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः ।
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ 6-106-4(43546)
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ 6-106-5(43547)
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥ 6-106-6(43548)
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।
संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ 6-106-7(43549)
तथैवान्ये महीपाला नानादेशसमागताः ।
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ।
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ 6-106-8(43550)
स समन्तात्परिवृतो रथौघैरपराजितः ।
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ 6-106-9(43551)
रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः ।
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ 6-106-10(43552)
` यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।'
तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥ 6-106-11(43553)
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।
कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ 6-106-12(43554)
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥ 6-106-13(43555)
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे।
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ 6-106-14(43556)
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः।
निशम्य सर्वभूतानि समकम्पन्त भारत ॥ 6-106-15(43557)
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ।
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ 6-106-16(43558)
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।
अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ 6-106-17(43559)
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कलपुत्रास्तनुत्यजः ।
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः॥ 6-106-18(43560)
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्।
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ 6-106-19(43561)
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत।
अपश्याम महाराज शतशोऽथ सहस्रशः ॥ 6-106-20(43562)
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।
शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते ॥ 6-106-21(43563)
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः ।
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ 6-106-22(43564)
बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः।
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः।
चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ॥ 6-106-23(43565)
गजारोहा गजान्राजन्हयांश्च हयसादिनः ।
अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ 6-106-24(43566)
यतमानाश्च ते वीरा द्रवमाणान्महारथान्।
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ 6-106-25(43567)
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।
अभज्यत महाराज न च द्वौ समधावताम् ॥ 6-106-26(43568)
आविद्धरथनागाश्वं पतितध्वजसंकुलम् ।
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ 6-106-27(43569)
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ।
प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ॥ 6-106-28(43570)
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ॥ 6-106-29(43571)
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् ।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ 6-106-30(43572)
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ 6-106-31(43573)
श्रीभगवानुवाच। 6-106-32x(4200)
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव।
प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ॥ 6-106-32(43574)
यत्पुरा कथितं वीर त्वया राज्ञां समागमे।
विराटनगरे तात सञ्जयस्य समीपतः ॥ 6-106-33(43575)
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ॥ 6-106-34(43576)
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम।
क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ॥ 6-106-35(43577)
सञ्जय उवाच। 6-106-36x(4201)
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः।
अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ 6-106-36(43578)
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ।
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ 6-106-37(43579)
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव।
पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ॥ 6-106-38(43580)
सञ्जय उवाच। 6-106-39x(4202)
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः।
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव । 6-106-39(43581)
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ 6-106-40(43582)
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।
धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ 6-106-41(43583)
क्षणेन स रथस्तस्य सहयः सहसारथिः ।
शरवर्षेण महता न प्राज्ञायत भारत ॥ 6-106-42(43584)
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः ।
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ॥ 6-106-43(43585)
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ 6-106-44(43586)
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 6-106-45(43587)
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ॥ 6-106-46(43588)
गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम।
साधुसाधु महाबाहो साधु कुन्तीसुतेति च ॥ 6-106-47(43589)
समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः।
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ 6-106-48(43590)
अदर्शयद्वसुदेवो हययाने परं बलम्।
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ॥ 6-106-49(43591)
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ 6-106-50(43592)
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ 6-106-51(43593)
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ 6-106-52(43594)
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।
नामृष्यत महाबाहुर्माधवः परवीरहा ॥ 6-106-53(43595)
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष ।
वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥ 6-106-54(43596)
अभिदुद्राव भीष्मं स भुजप्रहरणो बली।
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥ 6-106-55(43597)
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः ।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥ 6-106-56(43598)
ग्रसन्निव च तेजांसि तावकानां महाहवे ।
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥ 6-106-57(43599)
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः ।
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ॥ 6-106-58(43600)
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ 6-106-59(43601)
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् ।
अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥ 6-106-60(43602)
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे।
असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।
उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ॥ 6-106-61(43603)
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते ।
मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ॥ 6-106-62(43604)
त्वया हि देव संग्रामे हतस्यापि ममानघ ।
श्रेय एव परं कृष्ण लोके भवति सर्वतः ॥ 6-106-63(43605)
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे।
प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ॥ 6-106-64(43606)
सञ्जय उवाच। 6-106-65x(4203)
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् ।
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ 6-106-65(43607)
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ।
जगामैवैनमादाय वेगेन पुरुषोत्तमः ॥ 6-106-66(43608)
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ।
निजग्राह हृषीकेशं कथंचिद्दशमे पदे ॥ 6-106-67(43609)
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।
निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ॥ 6-106-68(43610)
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ।
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ 6-106-69(43611)
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव ।
ममैष भारः सर्वो हि हनिष्यामि पितामहम् ॥ 6-106-70(43612)
शपे केशव शस्त्रेण सत्येन सुकृतेन च।
अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ॥ 6-106-71(43613)
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् ।
तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ 6-106-72(43614)
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः।
`अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्'।
न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ 6-106-73(43615)
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः।
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ॥ 6-106-74(43616)
प्राणानादत्त योधानां पिता देवव्रतस्तव।
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ 6-106-75(43617)
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः ।
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ 6-106-76(43618)
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ 6-106-77(43619)
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ।
ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ॥ 6-106-78(43620)
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्।
वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः ॥ 6-106-79(43621)
तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत।
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव।
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ 6-106-80(43622)
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना।
समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ॥ 6-106-81(43623)
महारथं भारत दुष्प्रकम्पं
शरौघिणं प्रतपन्तं नरेन्द्रान्।
भीष्मं न शेकुः प्रतिवीक्षितुं ते
शरार्चिषं सूर्यमिवातपन्तम् ॥ 6-106-82(43624)
विमृद्गतस्तस्य तु पाण्डुसेना-
मस्तं जगामाथ सहस्ररश्मिः।
ततो हि भीष्मः सबलान्ससैन्या-
न्न्यवारयत्पाण्डुसुताञ्शरौघैः ॥ 6-106-83(43625)
जघान चैतान्सुभृशं महाबलो
महाव्रतः पाण्डुसुतान्महास्त्रैः ।
रणे करूणाधिपचेदिपैर्बलै-
र्वृतान्सदा चक्रधरस्य पश्यतः।
ततो बलानां श्रमकर्शितानां 6-106-84(43626)
6-106-84f"
मनोऽवहारं प्रति संबभूव ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे षडधिकशततमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|